Tuesday 2 December 2014

#SanskritAppreciationHour - 2.12.14 - Devi Mahatmyam, Ch 2, Vs 1 to 8 - 4th session

#SanskritAppreciationHour - 2.12.14 - Devi Mahatmyam Chapter 2, verses 1 to 8 

By Narayanan Namboodiri


Based on some feedback received on these SAH posts, today I'll try to blog this #SanskritAppreciationHour as a conversation copying from the tweets of Narayanan Namboodiri . The beginning and some important queries will however be embedded as tweets to enable readers understand queries and responses.














द्वितीयाध्यायस्य कांश्चन श्लोकान् अद्य पठामः ।
All ready?

In case you wish, you can see / download देवीमाहात्म्यम् chapters from here

1st Chapter of देवीमाहात्म्यम् covers मधुकैटभवधः, the तामसाविर्भावः of the Goddess.
Sage Sumedhas continues the narration with महिषासुरवधम् - the राजसाविर्भावः of the Goddess in Chapters 2-4.

Chapter 2

Verse 1:

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥



And पदच्छेदः देवासुरम् अभूत् युद्धं पूर्णम् अब्दशतं पुरा महिषे असुराणाम् अधिपे देवानाम् च पुरन्दरे ।

सन्धिः - महिषे असुराणाम् = महिषेऽसुराणाम् – पूर्वरूपसन्धिः । Note: "ऽ" - known as अवग्रहः चिह्नः




Well क्रियापदम् – अभूत्, took place, लुङ् लकारः, प्र.पु, ए.व

कर्तृपदम् – युद्धम्, War and देवासुरम्, between the Devas and Asuras इति विशेषणम् ।

Start अन्वयः with – पुरा देवासुरं युद्धम् अभूत् । Long back, there was a war between the Gods and demons.

Q - कियत् पर्यन्तम्? How long? A - पूर्णम् अब्दशतम् । For complete 100 years

We get - पुरा पूर्णम् अब्दशतम् देवासुरं युद्धम् अभूत् । Long back, there was a war between the Gods and demons for 100 years.

There is a सति-सप्तमी clause here. To join this in अन्वयः, we ask: Q - कदा पूर्णम् अब्दशतम् देवासुरं युद्धम् अभूत्? When?
A - महिषे असुराणाम् अधिपे (सति), when Mahisha was the King of the demons

Rohini Bakshi: Of course! युद्ध is a neuter noun, so even in prathamA it will be युद्धम् - learners please note!

And one more addition here, पुरन्दरे देवानाम् अधिपे च (सति), and when Indra was the King of the Gods



Q - कियत् पर्यन्तम्? How long? A - पूर्णम् अब्दशतम् । For complete 100 years

Or, महिषे असुराणाम् अधिपे, पुरन्दरे देवानाम् च अधिपे (सति), पुरा महिषे असुराणाम् अधिपे, पुरन्दरे देवानाम् च अधिपे (सति), पूर्णम् अब्दशतम् देवासुरं युद्धम् अभूत् ।

Hope the meaning is clear.




Verse 2:

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ।


जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ॥



सन्धिः 1. इन्द्रः + अभूत् = इन्द्रोऽभूत् – विसर्गसन्धिः पूर्वरूपसन्धिश्च
2. इन्द्रोऽभूत् + महिषासुरः = इन्द्रोऽभून्महिषासुरः - अनुनासिकसन्धिः

पदच्छेदः तत्र असुरैः महावीर्यैः देवसैन्यम् पराजितम् जित्वा च सकला `न् देवान् इन्द्रः अभूत् महिषासुरः ।

श्लोके वाक्यद्वयमस्ति - 2 sentences in the Verse. with ---

1. पराजितम्, was defeated, क्तान्तम् पदम्, कर्मणि, भुतकालार्थे । 2. अभूत्, became, लुङ् लकारः, प्र.पु, ए.व

अन्वयः प्रथमवाक्यम् – Start with: तत्र देवसैन्यं पराजितम् (अभवत्) । There (in that war), God’s army was defeated.

Q - कैः देवसैन्यं पराजितम् (अभवत्)? defeated by whom? A - महावीर्यैः असुरैः पराजितम् (अभवत्) |

असुरैः, by the demons, - कर्तृपदम् in तृतीयाविभक्तिः similar to कर्मणिप्रयोगः । with महावीर्यैः, very powerful – कर्तृपदविशेषणम्

क्तान्तम् पदम्, कर्मणि, भुतकालार्थे - aka passive past participle, for those more familiar with English terminology

अन्वयः 1st Sentence- तत्र महावीर्यैः असुरैः देवसैन्यं पराजितम् (अभवत्) । In that war, God’s army was defeated by the powerful demons.

अन्वयः द्वितीयवाक्यम् - क्रियापदम् – अभूत् (Became) कर्तृपदम् – महिषासुरः, Demon called Mahisha

With ल्यबन्तम् – जित्वा, having won over (having defeated)






Start अन्वयः with - महिषासुरः इन्द्रः अभूत् च । And Mahishasura became Indra (Lord of the heaven)

Q – किं कृत्वा? Having done what? Add the ल्यबन्तम् clause, we get –

सकलान् देवान् जित्वा महिषासुरः इन्द्रः अभूत् च । And having defeated all the Gods, Mahishasura became the lord of the heavens.

Thank you, Sir. And for the angrezi walas, abhavat is imperfect, while abhUt is an aorist form. Both fm भू

इदानीं श्लोकान्वयः –
तत्र महावीर्यैः असुरैः देवसैन्यं पराजितम् (अभवत्) । सकलान् देवान् जित्वा महिषासुरः इन्द्रः अभूत् च ।

In मधुकैटभवधः, we saw that even Brahama was troubled by the demons. Now it is the turn of the Gods being defeated in a prolonged war by Mahishasura. And during their crisis, what do they do? They approach supreme Lords and pray.



Verse 3:
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥


सन्धिः Quiz – What is the सन्धिः in यत्रेश ?


यत्र ईश

पदच्छेदः ततः पराजिताः देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गताः तत्र यत्र ईशगरुडध्वजौ ।

Here गताः – क्तान्तम्, (कर्तरिप्रयोगे) is used in place of verb in past tense. ल्यबन्तम् – पुरस्कृत्य, having made to lead (being led by)
Complete the ल्यबन्तम् clause -- “पद्मयोनिम् प्रजापतिम् पुरस्कृत्य”, making Brahma, born out of Lotus in the lead



कर्तृपदम् – देवाः, Gods with पराजिताः, defeated (in war) इति विशेषणम् ।

Start अन्वयः with - ततः पराजिताः देवाः गताः । Then the defeated Gods went.

Now see the यत्र/कुत्र in the verse. We add this by asking - Q – देवाः कुत्र गताः? Where did the Gods go?

A – देवाः तत्र गताः, यत्र ईशगरुडध्वजौ (स्थितौ), Gods went to where Lords Shiva (ईशः) and Vishnu (गरुडध्वजः) were present.



ईशगरुडध्वजौ – समस्तपदम् ईशश्च गरुडध्वजश्च ईशगरुडध्वजौ, द्वन्द्वसमासः ।

Now we get, ततः पराजिताः देवाः तत्र गताः , यत्र ईशगरुडध्वजौ (स्थितौ), । Then the defeated Gods approached Lords Shiva and Vishnu .

And to add the ल्यबन्तम् - Q – किम् कृत्वा?
ततः पराजिताः देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य, तत्र गताः , यत्र ईशगरुडध्वजौ (स्थितौ), ।

Meaning- Then the defeated Gods, with Brahma in the lead, approached Lords Shiva and Vishnu.






Here is Verse 4:

यथा वृत्तं तयोस्तत्र महिषासुरचेष्टितम् ।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥


पदच्छेदः यथा वृत्तम् तयोः तत्र महिषासुरचेष्टितम् त्रिदशाः कथयामासुः दॆवाभिभवविस्तरम्

क्रियापदम् – कथयामदुः, Narrated - लिट्, प्र.पु, बहुवचनम् कर्तृपदम् – त्रिदशाः, Gods

Start अन्वयः with – तत्र त्रिदशाः तयोः (कृते), महिषासुरचेष्टितम् कथयामासुः । There, Gods narrated to them the deeds of Mahishasura.

Remember Brahma with Gods narrating Ravana's misdeeds to Vishnu in Ramayanam?

Q - कथं कथयामासुः? A - यथा वृत्तं कथयामसुः ।, narrated as it happened

तत्र त्रिदशाः तयोः (कृते) महिषासुरचेष्टितम् यथा वृत्तं कथयामासुः । There, Gods narrated to them the deeds of Mahishasura, as it hppened.

We have one more word to add in अन्वयः – देवाभिभवविस्तरम् is कर्मपदविशेषणम् – see the word is in द्वितीयाविभक्तिः

It is a समस्तपदम् - देवानाम् अभिभवः – देवाभिभवः, (defeat of the Gods) षष्ठीतत्पुरुष समासः

देवाभिभवस्य विस्तरम् – दॆवाभिभवविस्तरम् (defeat of the Gods, in detail), also षष्ठीतत्पुरुष समासः

With this adjective, added we have the श्लोकान्वयः – त्रिदशाः तयोः (कृते) यथा वृत्तम् महिषासुरचेष्टितम् देवाभिभवविस्तरम् कथयामासुः ।



The misdeeds of demons and the misery of the Gods are described in the next few verses – Driven out of heavens, Gods losing their exalted positions and previleges, And the demon having taken over their rights etc. Now we move on to Verse 8 to see the reaction from Lords Shiva & Vishnu:



Verse 8

इत्थं निशम्य देवानां वचांसि मधुसूदनः ।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥

A simple verse here. And the verb here is --- चकार


Meanwhile here is पदच्छेदः इत्थं निशम्य देवानाम् वचांसि मधुसूदनः चकार कोपं शम्भुः च भ्रुकुटीकुटिलाननौ ।

As indicated by many, the verb is – चकार, did लिट्, प्र.पु, ए.व
(कोपं चकार, became angry)

ल्यबन्तम् – निशम्य, having heard “इत्थं देवानाम् वचांसि निशम्य”, having heard these wrds of Gods.

कर्तृपदम् - मधुसूदनः, शम्भुः च, Vishnu and Shiva & भ्रुकुटीकुटिलाननौ, both with bent eyebrows (frowning faces) – विशेषणम्

भ्रुकुटी- Eyebrows कुटिल - bent (frown) आननौ, faces

Start अन्वयः with – भ्रुकुटीकुटिलाननौ मधुसूदनः, शम्भुः च कोपं चकार । With frowning faces, Vishnu and Shiva becme angry.

Q – किं कृत्वा? Add the ल्यबन्तम् clause to get श्लोकान्वयः –

इत्थं देवानाम् वचांसि निशम्य, भ्रुकुटीकुटिलाननौ मधुसूदनः, शम्भुः च कोपं चकार ।

On hearing the words of the Gods, with frowning faces,Vishnu and Shiva becme angry.

Hearing the demon’s misdeeds and the misery inflicted on the Gods, both Shiva and Vishnu became very angry.

What next? From the angry Lords, there emits a glow representing their powers.